यज्ञोपवीतधारणविधिः

यज्ञोपवीत धारण विधिः

आचम्य ....... प्राणानायम्य ....... श्री परमेश्वरप्रीत्यर्थं मम ब्रह्मतेजसः अभिवृद्धर्थं, सकल-श्रौ-स्मार्त नित्य-कर्मानुष्ठान अधिकार-योग्यता सिद्ध्यर्थं, नूतन-यज्ञोपवीत-धारणं करिष्ये |

यज्ञोपवीतं कुंकुमादिना अलंकृत्य |

त्रिराचमेत् | द्विः परिमृज्य सकृदुपस्पृश्य यत्सव्यं पाणिं पादौ प्रक्षति  शिरश्चक्षुषी नासिके श्रोत्रे

ॐ यज्ञोपवीतं परंमं पवित्रं प्रजापते र्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥

धृत्वा त्रिराचमेत् | द्विः परिमृज्य | सकृदुपस्पृश्य | यत्सव्यं पाणिं पादौ प्रक्षति शिरश्चक्षुषी नासिके श्रोत्रे

गृहस्थाश्रमांगत्वेन द्वितीय यज्ञोपवीत धारणं करिष्ये |

ॐ यज्ञोपवीतं परंमं पवित्रं प्रजापते र्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥

 धृत्वा त्रिराचमेत् | द्विः परिमृज्य सकृदुपस्पृश्य यत्सव्यं पाणिं पादौ प्रक्षति  शिरश्चक्षुषी नासिके श्रोत्रे

उत्तरीयार्थं तृतीययज्ञोपवीतधारणं करिष्ये |

ॐ यज्ञोपवीतं परंमं पवित्रं प्रजापते र्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥

धृत्वा त्रिराचमेत् | द्विः परिमृज्य सकृदुपस्पृश्य यत्सव्यं पाणिं पादौ प्रक्षति  शिरश्चक्षुषी नासिके श्रोत्रे

यज्ञोपवीताधिष्टान देवता प्रीत्यर्थं यथाशक्ति गायत्री महामंत्र जपं करिष्ये | दशवारं गायत्रीं जप्त्वा |

जीर्णयज्ञोपवीतं अवमुच्य विसृजेत् |

श्लो॥ उपवीतं छिन्नतंतुं जीर्णकं मलदूषितम्
विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तुमे

Comments

Popular posts from this blog

శ్యామలాదండకం